X

Notice Regarding Guidance Session for Online MCQ Examination is Uploaded. See Notices Section.

संस्कृत

कला शाखायां स्नातकपदविः | ब.अ.
Language : English | Sanskrit

अस्मिन् स्नातकपदव्याः अभ्यासक्रमे वैदिक - अभिजात तथा आधुनिक -संस्कृत - साहित्यस्य अध्ययनं भवेत् । अपि च विविध-भारतीय-शास्त्राणां भारतीयज्ञानपरम्परायाः च परिचयः अपि भवेत् । आधुनिकसंस्कृतनाटकानां लेखन-अभिनय-मञ्चनेन च संस्कृतभाषायाः व्यवहारे प्रयोगः इति अस्माकं अभ्यासक्रमस्य असाधारणं वैशिष्ट्यं खलु ।

show more... show less...

उद्दिष्टानि

  • संस्कृतेन भाषिक-कौशलानां अवगमनम् ।
  • संस्कृतकाव्यनाटकादीनां मूलसंहितानां रसास्वादः विश्लेषणं च ।
  • लोके संस्कृतभाषायाः प्रसारः ।
  • आन्तरविद्याशाखीयं तथा आन्तरभाषिकं संशोधनम् ।
  • भारतीयज्ञानपरम्परायाः आधुनिककाले उपयोजनम् ।

संस्कृतसभा

’संस्कृतसभा’ इति संस्कृतविभागस्य पाठ्येतर-उपक्रमाणां कृते कार्यरतं छात्रमण्डलम् । यथाकालं संस्कृतसभया कालिदासदिनः संस्कृतदिनः च सम्पद्येते । अस्माकं विशेष - उपक्रमः नाम प्रतिवर्षं गीताजयन्त्याः अवसरे आयोजिताः विविधाः स्पर्धाः । संस्कृत नाटकानां मञ्चनम् तथा संस्कृतनाट्यस्पर्धासु सहभागः इति अपि अस्य मण्डलस्य अनन्यसाधारणः उपक्रमः एव ।

भूतपूर्वः छात्रवर्गः

पाठ्यक्रमः

First year (Semester- I)

संस्कृतरंगभूमेः परिचयः, भाससमस्या, भासविरचितं मध्यमव्यायोगः ।

Compulsory: संस्कृतेन भाषिककौशलानि ।

 सर्वनामानि, लिङ्गम्, वचनम्, क्रियापदरूपाणि, संस्कृतसुभाषितानि ।

First Year (Semester- II)

 आर्षमहाकाव्ययोः परिचयः, रामायणमहाभारतयोः निर्मितिः स्वरूपं च । रामायणमहाभारतयोः विशिष्टपाठ्याशांनाम् अध्ययनम् ।

Compulsory: संस्कृतेन भाषिककौशलानि ।

 विभक्तिरूपाणि, संस्कृतेन वाक्यरचना, संस्कृतकथावाङ्मयम् ।

Second Year (Semester- III)

 काव्यस्य संकल्पना, विविधाः व्याख्याः, काव्यशास्त्रे षड् विचाराः, मम्मटस्य काव्यप्रकाशे प्रथमः द्वितीयः तथा दशमः उल्लासः ।

 भारतीयतत्त्वज्ञानस्य परिचयः, श्रीमद्भगवद्गीतायाः पार्श्वभूमिः, श्रीमद्भगवद्गीतायाः द्वितीयः अध्यायः ।

Second Year (Semester- IV)

कालिदासस्य कालः स्थानं च, कालिदासस्य सप्तरचनाः । कालिदासविरचित-कुमारसम्भवस्य पञ्चमः सर्गः ।

 प्राचीनभारतीयज्ञानपरम्परायाः परिचयः, रसशास्त्रम्, वनस्पतिशास्त्रम्, योगशास्त्रम् च ।

Third Year (Semester- V)

 न्यायवैशेषिकदर्शनस्य परिचयः, अन्नंभट्टकृतः तर्कसङ्ग्रहः ।

 काव्यभेदाः, नाट्यवाङ्मयस्य वैशिष्ट्यानि, चितानि संस्कृतनाटकानि ।

 चाणक्यस्य कालः स्थानं च, कौटलीय-अर्थशास्त्रस्य रचना, रीतिः च, कौटलीय-अर्थशास्त्रस्य पाठ्यांशः ।

 वैदिक-वाङ्मयस्य वैशिष्ट्यानि, ऋग्वेदात् तथा अथर्ववेदात् चितानि कानिचन सूक्तानि ।

 पाणिनीयव्याकरणस्य परिभाषा । लघुसिद्धान्तकौमुदेः संज्ञाप्रकरणम्, कारकप्रकरणं च, संस्कृतभाषया निबन्धलेखनं, कथालेखनं च ।

 पुरातत्त्वशास्त्रम्, नाणकशास्त्रम् ।

 मुक्ता, भुवम् आनीता भगवद्भाषा ।

Third Year (Semester- VI)

 वेदान्तदर्शनस्य परिचयः, सदानन्दकृतं वेदान्तसारम्, ब्रह्मसूत्रशाङ्करभाष्यात् चितानि सूत्राणि ।

 संस्कृतभाषायां गद्यसाहित्यं तथा चम्पूसाहित्यम् ।

 संस्कृतपुराभिलेखाः - अलाहाबादस्थितः प्रस्तरलेखः, जुनागढस्थितः प्रस्तरलेखः, ऐहोळस्थितः प्रस्तरलेखः च ।

 ब्राह्मणवाङ्मयस्य तथा उपनिषद्- वाङ्मयस्य परिचयः । ब्राह्मणवाङ्मयात् चितः पाठ्यांशः, ईशावास्योपनिषद्, कठोपनिषद् ।

 लघुसिद्धान्तकौमुदेः सन्धिप्रकरणं तस्य उपयोजनं च, संस्कृतभाषया वृत्तलेखनं, संवादलेखनं च ।

 कण्टकाञलिः, कथामुक्तावलिः, गज्जलिका च ।